ब्रेकिंग
MP-CG Crime News: चरित्र शंका के विवाद में उजड़ गया हंसता-खेता परिवार, आरोपी पति ने खुद को भी किया ल... Supreme Court Legal News: वायुसेना की पूर्व अधिकारी को मिली बड़ी राहत, 12 साल बाद फिर से स्क्वाड्रन ... Jiji Thomson Claim Against CEC: पूर्व IAS अधिकारी जिजी थॉमसन के दावे पर घिरे ज्ञानेश कुमार, बीजेपी स... Mahindra Thar Accident Delhi: रोड रैश गेम जैसा दिखा खौफनाक मंजर, तेज रफ्तार थार की टक्कर से बाइक सवा... Cyclone Arnab Impact: एनसीआर में बदला मौसम का मिजाज, बारिश के बाद ट्रैफिक जाम और जलभराव से लोग परेशा... Nomadic Elephant 2026: पिथौरागढ़ में भारत-मंगोलिया का संयुक्त सैन्य अभ्यास, रूम इंटरवेंशन और बोख कुश... Yogi Adityanath Delhi Visit: पीएम मोदी और जेपी नड्डा से मिले सीएम योगी आदित्यनाथ, यूपी चुनाव और संगठ... सोशल मीडिया पर दिखावा पड़ा भारी: यूट्यूबर मधुमिता के घर से ₹1 करोड़ के सोने-हीरे के जेवर चोरी Delhi Festive Preparations: रामलीला, दुर्गा पूजा और छठ पर्व के लिए दिल्ली सरकार ने बनाई 3 विशेष समित... वोटर रजिस्ट्रेशन प्रक्रिया हुई बेहद आसान: अब दफ्तरों के चक्कर लगाने से मिलेगी मुक्ति, घर आएंगे BLO
धार्मिक

सर्वपितृ अमावस्या पर जरूर करें इस चमत्कारी स्तोत्र का पाठ, परिवार को मिलेगी तरक्की

श्राद्धेर्मनोमयैर्भक्तया भुक्ति-मुक्तिमभीप्सुभिः ।।

नमस्येऽहं पितृन्स्वर्गे सिद्धाः संतर्पयन्ति यान् ।

श्राद्धेषु दिव्यैः सकलै रूपहारैरनुत्तमैः ।।

नमस्येऽहं पितृन्भक्तया येऽर्च्यन्ते गुह्यकैरपि ।

तन्मयत्वेन वांछिद्भिर्ऋद्धिमात्यंतिकीं पराम् ।।

नमस्येऽहं पितृन्मर्त्यैरच्यन्ते भुवि ये सदा ।

श्राद्धेषु श्रद्धयाभीष्ट लोक-प्राप्ति-प्रदायिनः ।।

नमस्येऽहं पितृन् विप्रैरर्च्यन्ते भुवि ये सदा।

वाञ्छिताभीष्ट-लाभाय प्राजापत्य-प्रदायिनः ।।

नमस्येऽहं पितृन् ये वै तर्प्यन्तेऽरण्यवासिभिः ।

वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकिल्बिषैः ।।

नमस्येऽहं पितृन् विप्रैर्नैष्ठिकब्रह्मचारिभिः ।

ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभिः ।।

नमस्येऽहं पितृन् श्राद्धै राजन्यास्तर्पयंति यान् ।

कव्यैरशेषैर्विधिवल्लोकत्रय फलप्रदान् ।।

नमस्येऽहं पितृन्वैष्यैरर्च्यन्ते भुवि ये सदा ।

स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ।।

नमस्येऽहं पितुन् श्राद्धैर्ये शूद्रैरपि च भक्तितः ।

संतृप्यन्ते जगत्यत्र नाम्ना ज्ञाताः सुकालिनः ।।

नमस्येऽहं पितृन् श्राद्धैः पाताले ये महासुरैः ।

संतर्प्यन्ते स्वधाहारैस्त्यक्त दम्भमदैः सदा ।।

नमस्येऽहं पितृन् श्राद्धैरर्च्यन्ते ये रसातले ।

भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ।।

नमस्येऽहं पितृन् श्राद्धैः सर्पैः संतर्पितान् सदा ।

तत्रैव विधिवन्मंत्रभोगसंपत्समन्वितैः।।

पितृन्नमस्ये निवसन्ति साक्षाद्ये देवलोके च तथांतरिक्षे।

महीतले ये च सूरादिपूज्यास्ते मे प्रयच्छन्तु मयोपनीतम्।।

पितृन्नमस्ये परमात्मभूता ये वै विमाने निवसंति मूर्त्ताः।

यजन्ति यानस्तमलैर्मनोभिर्यौगीश्वराः क्लेश-विमुक्ति-हेतून्।।

पितृन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसंधौ।

प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु।।

तृप्यंतु तेऽस्मिन् पितरः समस्ता इच्छावतां ये प्रदिशंति कामान्।

सुरत्वमिन्द्रत्वमतोधिकंवा सुतान् पशून् स्वानि बलं गृहाणि।।

सोमस्य ये रष्मिषुयेऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति।

तृप्यंतु तेऽस्मिन्पितरोऽन्नतोयैर्गंधादिना पुष्टिमितो व्रजंतु।।

येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्र-शरीर-भाजः।

ये पिंडदानेन मुदं प्रयांति तृप्यन्तु तेऽस्मिन् पितरोन्नतोयैः।।

ये खंगिमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्यमनोहररैश्च।

कालेनशाकेन महर्षि वर्यैः संप्रीणितास्ते मुदमत्र यान्तु।।

कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां ममरार्चितानाम्।

तेषां तु सान्निध्यमिहास्तु पुष्पगंधान्नभोज्येषु मया कृतेषु।।

दिनेदिने ये प्रतिगृह्णतेर्श्ष्चां मासान्तपूज्या भुवि येऽष्टकासु।

येवत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तृप्तिम्।।

पूज्याद्विजानां कुमुदेंदुभासो ये क्षत्रियाणां च नवार्कवर्णाः।

तथा विशां ये कनकावदाता नीलीनिभाः शूद्रजनस्य ये च।।

तेऽस्मिन् समस्ता मम पूष्पगंधधूपान्नतोयादि निवेदनेन।

तथाग्निहोमेन च यांतु तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः।।

ये देव पूर्वाण्यतितृप्तिहेतोरश्नंति कव्यानि शुभाहुतानि।

तृप्ताश्चयेभूतिसृजो भवंति तृप्यन्तु तेस्मिन् प्रणतोस्मि तेभ्यः।।

रक्षांसि भुतान्यसुरांस्तथोग्रान्निर्णाशयन्तस्त्व शिवं प्रजानाम्।

आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः।।

अग्निश्वात्ता बर्हिषदा आज्यपाः सोमपास्तथा।

व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पितामया।

अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम्।

तथा बर्हिषदः पान्तु याम्यां पितरस्तथा।।

प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः।

रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः।।

सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे।

विश्वो विश्वभुगाराध्यो धर्म्यो धन्यः शुभाननः।।

भूतिदो भूतिकृद्भूतिः पितृणां ये गणा नव।

कल्याणः कल्पतां कर्त्ता कल्पः कल्पतराश्रयः।।

कल्पताहेतुरनघः षडिमे ते गणाः स्मृताः।

वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा।।

विश्वपाता तथा धाता सप्तैवैते गणास्तथा।

महान् महात्मा महितो महिमावान्महाबलः।।

गणाः पंचतथैवेते पितृणां पापनाशनाः।

सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः।।

पितृणां कथ्यते चैतत्तथा गणचतुष्टयम्।

एकत्रिंशत् पितृगणा यैर्व्याप्तमखिलं जगत्।।

ते मेऽनुतृप्तास्तुष्यंतु यच्छन्तु च सदा हितम्।

मार्कण्डेय उवाच एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः ।

प्रादुर्बभुव सहसा गगनव्याप्तिकारकः ।।

तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।

जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदं जगौ ।।

रुचिरुवाच अमूर्त्तानां च मूर्त्तानां पितृणां दीप्ततेजसाम्।।

नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्।

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा।।

सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान्।

मन्वादीनां मुनींद्राणां सूर्य्याचन्द्रमसोस्तथा।।

तान्नमस्याम्यहं सर्वान् पितरश्चार्णवेषु च।

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।।

द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः।

प्रजापतेः कश्यपाय सामाय वरुणाय च ।

देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतान्।।

योगेश्वरेभ्यश्च सदा नमस्यामि कृतांजलिः।

नमो गणेभ्यःसप्तभ्यस्तथा लोकेषु सप्तसु।।

स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे।

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा।।

नमस्यामि तथा सोमं पितरं जगतामहम्।

अग्निरूपांस्तथैवान्यान्नमस्यामि पितृनहम्।।

अग्निसोममयं विश्वं यत एतदशेषतः।

ये च तेजसि ये चैते सोमसूर्य्याग्निमूर्त्तयः।।

जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः।

तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः।

नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः।।

मार्कण्डेय उवाच एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः ।

निश्चक्रमस्ते पितरो भासयन्तो दिशो दश ।।

निवेदनं च यत्तेन पुष्पगन्धानुलेपनम् ।

तदभूषितानथ स तान् ददृशे पुरतः स्थितान् ।।

प्रणिपत्य रुचिर्भक्त्या पुरेव कृतांजलिः ।

नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ।।

पितर ऊचुः स्तोत्रेणानेन च नरो यो मां स्तोष्यति भक्तितः।

तस्य तुष्टा वयं भोगानात्म ज्ञानं तथोत्तमम्।।

शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथाः।

प्रदास्यामो न संदेहो यच्चान्यदभिवांछितम्।।

तस्मात्पुण्यफलं लोके वांछिद्भिः सततं नरैः।

पितृणां चाक्षयां तृप्ति स्तव्या स्तोत्रेण मानवैः।।

वाञ्छद्भिः सततं स्तव्यां स्तोत्रेणानेन वै यतः।

श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम्।।

पठिष्यंति द्विजाग्र्याणां भुजंतांपुरतः स्थिताः।

स्तोत्र श्रवण संप्रीत्या सन्निधाने परेकृते।।

अस्माकम क्षयं श्राद्धं तद्भविष्यत्य संशयम्।

यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत्।।

अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा।

अश्राद्धार्हैरूपहृतैरूपहारैस्तथा कृतम्।।

अकालेऽप्यथवाऽदेशे विधिहीनमथापि वा।

अश्रद्धया वा पुरूषैर्दंभमाश्रित्य वा कृतम्।।

अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात्।

यत्रेतत्पठ्यते श्राद्धेस्तोत्रमस्मत्सुखावहम्।।

अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी।

हेमन्ते द्वादशाद्वानि तृप्तिमेतत्प्रयच्छति।।

शिशिरे द्विगुणाब्दांश्च तृप्तिस्तोत्रमिदं शुभम्।

वसन्ते षोडश समास्तृप्यते श्राद्धकर्मणि।।

ग्रीष्मे च षोडशे वैतत्पठितं तृप्तिकारकम्।

विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते।।

वर्षासु तृप्तिरस्माकमक्षया जायते रूचे।

शरत्काले पिपठितं श्राद्धकाले प्रयच्छति।।

अस्माकमेतत्पुरूषैस्तृप्तिं पंचदशाद्धिकाम्।

यस्मिन् गृहे च लिखितमेतत्तिष्ठति नित्यदा।।

सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति।

तस्मादेतत्त्वया श्राद्धे विप्राणां भुंजतां पुरः।।

श्रावणीयं महाभाग अस्माकं पुष्टिहेतुकम्।

इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तम।।

डिसक्लेमर

‘इस लेख में दी गई जानकारी/सामग्री/गणना की प्रामाणिकता या विश्वसनीयता की गारंटी नहीं है। सूचना के विभिन्न माध्यमों/ज्योतिषियों/पंचांग/प्रवचनों/धार्मिक मान्यताओं/धर्मग्रंथों से संकलित करके यह सूचना आप तक प्रेषित की गई हैं। हमारा उद्देश्य सिर्फ सूचना पहुंचाना है, पाठक या उपयोगकर्ता इसे सिर्फ सूचना समझकर ही लें। इसके अतिरिक्त इसके किसी भी तरह से उपयोग की जिम्मेदारी स्वयं उपयोगकर्ता या पाठक की ही होगी।’

Related Articles

Back to top button